नाग स्तोत्र के पाठ करने से क्या फल मिलता है?




ॐ सर्पेभ्यो नमः

ॐ शं शं शं शेषनाग देवताये नमः

ॐ ह्रीं क्लीं वासुक्ये नमः

ॐ सहस्त्रफणाय च विदमहे वासुकीराजाय धीमहि तन्नो नाग: प्रचोदयात्

ॐ भुजंगेशाय विद्महे, सर्पराजाय धीमहि, तन्नो नाग: प्रचोदयात्।।

ॐ नवकुलाय विद्महे विषदंताय धीमहि तन्नो सर्प प्रचोदयात

ॐ अनन्तेशाय विद्महे महाभुजांगाय धीमहि तन्नो नाथः प्रचोदयात


1....🌷🌷🌷 नाग कवच 🌷🌷🌷🌷


ध्यान 

नागराजस्य देवस्य कवचम सर्वकामदम्

बुशिरस्य महादेवो गायत्री चंदा एरीता: ईरितह:

ताराबीजम शिवशक्ति: क्रोधबिजस्तु कीलकह:

देवता नागराजस्तु फनमनी विराजिताः

सर्वकमर्धा सिद्धयार्दे विनियोगह:प्रकीर्तितह:


नाग कवच 


अनंतोमे शिरः पातु काण्टम संकर्षण स्तथा

कर्कोटाको नेत्र युग्मं कपिलः कर्मयुग्मकम

वक्षस्थलं नागा यक्ष बाहुकाल भुजंगमः

उदरं धृतराष्ट्रस्च वज्रनागस्तु प्रुष्ट्कं

मरमांगम् अश्वसेनास्थु पादावस्वतरोवतु

वासुकिः पातुमाम् प्राच्ये आग्नेयांतु धनंजयः

तक्षको दक्षिणे पातु नैऋत्यां शंकपालकः

महापद्मः प्रतीच्यांतु वायव्यां शंकनीलकः

उत्तरे कंबलः पातु ईशान्यम् नागभैरवः

उर्ध्यमच ऐरावतो धस्तात नागभेताला नायकः

सदा सर्वत्रमां पातुम नागा लोकाधिनायकः


इति श्री नाग कवच ||

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️


2...🌷🌷🌷🌷नाग स्तोत्र 🌷🌷🌷


नाग गायत्री मंत्र ॥

~~~~~~~~~~~

ॐ नव कुलाय विध्महे विषदन्ताय धीमाहि तन्नो सर्प प्रचोदयात ll


लोके च ये सर्पाः शेषनागाः पुरोगमाः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥


विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥२॥


रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥३॥


खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥४॥


सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥५॥


प्रलये चैव ये सर्पाः कार्कोट प्रमुखाश्चये ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥६॥


धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥७॥


ये सर्पाः पर्वत येषु धारि सन्धिषु संस्थिताः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥८॥


ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥९॥


पृथिव्याम् चैव ये सर्पाः ये सर्पाः बिल संस्थिताः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१०॥


रसातले च ये सर्पाः अनन्तादि महाबलाः ।


नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥११॥


🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀


3....🌷🌷श्रीनवनाग स्त्रोत :🌷🌷🌷


नाघपंचमी, मौना पंचमी या किसी भी माह की शुक्ल पंचमी पर नव नाग स्त्रोत का पाठ करने से सभी तरह के काल सर्प दोष, सर्प भय आदि से मुक्ति मिलती है।  

 

अगस्त्यश्च पुलस्त्यश्च वैशम्पायन एव च।


सुमन्तुजैमिनिश्चैव पञ्चैते वज्रवारका: ॥१॥


मुने: कल्याणमित्रस्य जैमिनेश्चापि कीर्तनात् ।


विद्युदग्निभयं नास्ति लिखितं गृहमण्डल ॥२॥


अनन्तो वासुकि: पद्मो महापद्ममश्च तक्षक:।


कुलीर: कर्कट: शङ्खश्चाष्टौ नागा: प्रकीर्तिता: ॥३॥


यत्राहिशायी भगवान् यत्रास्ते हरिरीश्वर:।


भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥४॥


॥ इति श्रीनागस्तोत्रम् सम्पूर्णम् ॥


#


अनंतं वासुकि शेष पद्मनाभं च कम्बलम्।


शड्खपाल धार्तराष्ट्र तक्षकं कालियं तथा॥१॥


एतानि नव नामानि नागानां च महात्मनाम्।


सायंकाले पठेन्नित्यं प्रातः काले विशेषतः॥२॥


तस्मे विषभयं नास्ति सर्वत्र विजयीं भवेत्।

🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀☘️☘️🍀🍀

🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀


.4..🌷🌷🌷🌷नागशान्तिस्तोत्रम् 🌷🌷🌷


श्री गणेशाय नमः  ।


श्री हाटकेश्वराय नमः ।

आरक्तेन शरीरेण रक्तान्तायतलोचनः ।

महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ १॥


अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ।

महापापविषं हत्वा शान्तिमाशु करोतु मे ॥ २॥


सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ।

चारुभोगकृताटोपो हारचारुविभूषणः ॥ ३॥


वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ।

महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे ॥ ४॥


अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ।

तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः ॥ ५॥


नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ।

करोतु मे महाशान्तिं सर्वदोषविषावहः ॥ ६॥


अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ।

कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ॥ ७॥


कर्कोटको महानागो विषदर्पबलाऽन्वितः ।

विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ॥ ८॥


पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ।

पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ॥ ९॥


ख्यातः पद्मो महानागो हरपादार्चने रतः ।

करोतु मे महाशान्तिं महापापं विषक्षयम् ॥ १०॥


पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ।

शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ॥ ११॥


महापद्मो महानागो नित्यं पशुपतौ रतः ।

विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ॥ १२॥


श्यामेन देहभारेण श्रीमत्कमललोचनः ।

विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ॥ १३॥


शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ।

महाविषं महापापं हत्वा शान्तिं करोतु मे ॥ १४॥


अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ।

दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ॥ १५॥


कुलिको नागराजेशो नित्यं हरपरायणः ।

अपहृत्य विषं घोरं करोतु मम शान्तिकम् ॥ १६॥


अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।

गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ॥ १७॥


पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ।

रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ॥ १८॥


नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ।

शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ॥ १९॥


यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ।

न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ॥ २०॥


चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ।

सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ॥ २१॥


इति नागशान्तिस्तोत्रं सम्पूर्णम् ।

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️


5....🌷🌷🌷नागदेवताष्टोत्तरशतनामावलिः 🌷🌷🌷


ॐ अनन्ताय नमः ।

ॐ आदिशेषाय नमः ।

ॐ अगदाय नमः ।

ॐ अखिलोर्वेचराय नमः ।

ॐ अमितविक्रमाय नमः ।

ॐ अनिमिषार्चिताय नमः ।

ॐ आदिवन्द्यानिवृत्तये नमः ।

ॐ विनायकोदरबद्धाय नमः ।

ॐ विष्णुप्रियाय नमः ।

ॐ वेदस्तुत्याय नमः ॥ १०॥


ॐ विहितधर्माय नमः ।

ॐ विषधराय नमः ।

ॐ शेषाय नमः ।

ॐ शत्रुसूदनाय नमः ।

ॐ अशेषपणामण्डलमण्डिताय नमः ।

ॐ अप्रतिहतानुग्रहदायाये नमः ।

ॐ अमिताचाराय नमः ।

ॐ अखण्डैश्वर्यसम्पन्नाय नमः ।

ॐ अमराहिपस्तुत्याय नमः ।

ॐ अघोररूपाय नमः ॥ २०॥


ॐ व्यालव्याय नमः ।

ॐ वासुकये नमः ।

ॐ वरप्रदायकाय नमः ।

ॐ वनचराय नमः ।

ॐ वंशवर्धनाय नमः ।

ॐ वासुदेवशयनाय नमः ।

ॐ वटवृक्षार्चिताय नमः ।

ॐ विप्रवेषधारिणे नमः ।

ॐ त्वरितागमनाय नमः ।

ॐ तमोरूपाय नमः ॥ ३०॥


ॐ दर्पीकराय नमः ।

ॐ धरणीधराय नमः ।

ॐ कश्यपात्मजाय नमः ।

ॐ कालरूपाय नमः ।

ॐ युगाधिपाय नमः ।

ॐ युगन्धराय नमः ।

ॐ रश्मिवन्ताय नमः ।

ॐ रम्यगात्राय नमः ।

ॐ केशवप्रियाय नमः ।

ॐ विश्वम्भराय नमः ॥ ४०॥


ॐ शङ्कराभरणाय नमः ।

ॐ शङ्खपालाय नमः ।

ॐ शम्भुप्रियाय नमः ।

ॐ षडाननाय नमः ।

ॐ पञ्चशिरसे नमः ।

ॐ पापनाशाय नमः ।

ॐ प्रमदाय नमः ।

ॐ प्रचण्डाय नमः ।

ॐ भक्तिवश्याय नमः ।

ॐ भक्तरक्षकाय नमः ॥ ५०॥


ॐ बहुशिरसे नमः ।

ॐ भाग्यवर्धनाय नमः ।

ॐ भवभीतिहराय नमः ।

ॐ तक्षकाय नमः ।

ॐ लोकत्रयाधीशाय नमः ।

ॐ शिवाय नमः ।

ॐ वेदवेद्याय नमः ।

ॐ पूर्णाय नमः ।

ॐ पुण्याय नमः ।

ॐ पुण्यकीर्तये नमः ॥ ६०॥


ॐ पटेशाय नमः ।

ॐ पारगाय नमः ।

ॐ निष्कलाय नमः ।

ॐ वरप्रदाय नमः ।

ॐ कर्कोटकाय नमः ।

ॐ श्रेष्ठाय नमः ।

ॐ शान्ताय नमः ।

ॐ दान्ताय नमः ।

ॐ आदित्यमर्दनाय नमः ।

ॐ सर्वपूज्याय नमः ॥ ७०॥


ॐ सर्वाकाराय नमः ।

ॐ निराशायाय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ ऐरावताय नमः ।

ॐ शरण्याय नमः ।

ॐ सर्वदायकाय नमः ।

ॐ धनञ्जयाय नमः ।

ॐ अव्यक्ताय नमः ।

ॐ व्यक्तरूपाय नमः ।

ॐ तमोहराय नमः ॥ ८०॥


ॐ योगीश्वराय नमः ।

ॐ कल्याणाय नमः ।

ॐ वालाय नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ शङ्करानन्दकराय नमः ।

ॐ जितक्रोधाय नमः ।

ॐ जीवाय नमः ।

ॐ जयदाय नमः ।

ॐ जपप्रियाय नमः ।

ॐ विश्वरूपाय नमः ॥ ९०॥


ॐ विधिस्तुताय नमः ।

ॐ विधेन्द्रशिवसंस्तुत्याय नमः ।

ॐ श्रेयप्रदाय नमः ।

ॐ प्राणदाय नमः ।

ॐ विष्णुतल्पाय नमः ।

ॐ गुप्ताय नमः ।

ॐ गुप्तातराय नमः ।

ॐ रक्तवस्त्राय नमः ।

ॐ रक्तभूषाय नमः ।

ॐ भुजङ्गाय नमः ॥ १००॥


ॐ भयरूपाय नमः ।

ॐ सरीसृपाय नमः ।

ॐ सकलरूपाय नमः ।

ॐ कद्रुवासम्भूताय नमः ।

ॐ आधारविधिपथिकाय नमः ।

ॐ सुषुम्नाद्वारमध्यगाय नमः ।

ॐ फणिरत्नविभूषणाय नमः ।

ॐ नागेन्द्राय नमः ॥ १०८॥


॥ इति नागदेवताष्टोत्तरशतनामावलिः ॥

🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️

6...🌷🌷🌷🌷सर्पसूक्तम् १ 🌷🌷🌷🌷


नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु ।

ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १॥


येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।

येषामप्सूषदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ २॥


या इषवो यातुधानानां ये वा वनस्पतीम्+ रनु ।

ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ३॥


ऋग्वेद खिलानि (२.१४)

स्वप्नस्स्वप्नाधिकरणे सर्वं निष्वापया जनम् ।

आ सूर्यमन्यांस्त्वापयाव्युषं जाग्रियामहम् ॥ ४॥


अजगरोनाम सर्पः सर्पिरविषो महान् ।

तस्मिन्हि सर्पस्सुधितस्तेनत्वा स्वापयामसि ॥ ५॥


सर्पस्सर्पो अजगरसर्पिरविषो महान् ।

तस्य सर्पात्सिन्धवस्तस्य गाधमशीमहि ॥ ६॥


कालिको नाम सर्पो नवनागसहस्रबलः ।

यमुनाह्रदेहसो जातो यो नारायण वाहनः ॥ ७॥


यदि कालिकदूतस्य यदि काः कालिकात् भयात् ।

जन्मभूमिमतिक्रान्तो निर्विषो याति कालिकः ॥ ८॥


आयाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमन्नो भागदेयञ्जुषस्व ।

तृप्तां जुहुर्मातुलस्ये वयोषा भागस्थे पैतृष्वसेयीवपामिव ॥ ९॥


यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव ।

सङ्कीर्णनागाश्वपतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः ॥ १०॥


कर्कोटको नाम सर्पो योद्वष्टी विष उच्यते ।

तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते ॥ ११॥


सर्पगायत्री -

भुजङ्गेशाय विद्महे सर्पराजाय धीमहि ।

तन्नो नागः प्रचोदयात् ॥ १२॥


नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।

ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥


ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।

येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥


या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।

ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥


तैत्तिरीयसंहिता

🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀☘️☘️


7...🌷🌷🌷सर्पसूक्तम् २ 🌷🌷🌷🌷


ब्रह्मलोकेषु ये सर्पाः शेषनाग परोगमाः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १॥


इन्द्रलोकेषु ये सर्पा वासुकि प्रमुखादयः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ २॥


कद्रवेयश्च ये सर्पाः मातृभक्तिपरायणाः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ३॥


इन्द्रलोकेषु ये सर्पाः तक्षकाः प्रमुखादयः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ४॥


सत्यलोकेषु ये सर्पा वासुकीना च रक्षिताः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ५॥


मलये चैव ये सर्पाः कर्कोटक प्रमुखादयः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ६॥


पृथिव्यां चैव ये सर्पा ये साकेत वासिताः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ७॥


सर्वग्रामेषु ये सर्पा वसन्तिषु सञ्च्छिताः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ८॥


ग्रामे वा यदि वाऽरण्ये ये सर्पाः प्रचरन्ति च ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ९॥


समुद्रतीरे ये सर्पा ये सर्पा जलवासिनः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १०॥


रसातलेषु ये सर्पा अनन्तादि महाबलाः ।

नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ११॥


इति सर्पसूक्तं सम्पूर्णम् ।

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️


8....🌷🌷🌷सर्पसूक्तम् ३ 🌷🌷🌷🌷


नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।

ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥


ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।

येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥


या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।

ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ (TS) १


इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।

आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥ (३। १। १। ५॥ TS)

ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ ।

ते नः॑ स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।

ये दिवं॑ दे॒वीमनु॑ सं॒चर॑न्ति ।

येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् ।

तेभ्यः॑ स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । (३। १। १। ६॥) (TS) २


नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् ।

 अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚

 । नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् । (०।१।१२। ५८) (TA) ३


स्वररहितम् ।


नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ।

ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥


येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।

येषामप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥


या इषवो यातुधानानां ये वा वनस्पतीꣳरनु ।

ये वा वटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ४। २। ८॥ (TS) १


इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् ।

आश्रेषा येषामनुयन्ति चेतः ॥ (३। १। १। ५॥)

ये अन्तरिक्षं पृथिवीं क्षियन्ति ।

ते नः सर्पासो हवमागमिष्ठाः ।

ये रोचने सूर्यस्यापि सर्पाः ।

ये दिवं देवीमनु संचरन्ति ।

येषामाश्रेषा अनुयन्ति कामम् ।

तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । (३। १। १। ६॥) (TS) २


निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्रायाहि सहस्रयुक् ।

 अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवथ्सरो विषूवर्णैः

 । नित्यास्तेऽनुचरास्तव । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सुब्रह्मण्योम् । (०।१।१२। ५८) (TA) ३

🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀


9....☘️🌷🍀श्रीशिवभुजङ्गम् अथवा शिवस्तुतिः🌷


 श्रीशिवभुजङ्गम् अथवा शिवस्तुतिः 


गलद्दानगण्डं मिलद्भृङ्गषण्डं

     चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।

कनद्दन्तकाण्डं विपद्भङ्गचण्डं

     शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १॥


अनाद्यन्तमाद्यं परं तत्त्वमर्थं

     चिदाकारमेकं तुरीयं त्वमेयम् ।

हरिब्रह्ममृग्यं परब्रह्मरूपं

     मनोवागतीतं महःशैवमीडे ॥ २॥


स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं

     मनोहारिसर्वाङ्गरत्नोरुभूषम् ।

जटाहीन्दुगङ्गास्थिशम्याकमौलिं

     पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३॥


शिवेशानतत्पूरुषाघोरवामा-

     दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।

अनौपम्य षट्त्रिंशतं तत्त्वविद्या-

     मतीतं परं त्वां कथं वेत्ति को वा ॥ ४॥


प्रवालप्रवाहप्रभाशोणमर्धं

     मरुत्वन्मणिश्रीमहःश्याममर्धम् ।

गुणस्यूतमेतद्वपुः शैवमन्तः

     स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ ५॥


स्वसेवासमायातदेवासुरेन्द्रा-

     नमन्मौलिमन्दारमालाभिषिक्तम् ।

नमस्यामि शम्भो पदाम्भोरुहं ते

     भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६॥


जगन्नाथ मन्नाथ गौरीसनाथ

     प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।

महःस्तोममूर्ते समस्तैकबन्धो

     नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७॥


विरूपाक्ष विश्वेश विश्वादिदेव

     त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् ।

प्रसीद स्मर त्राहि पश्यावमुक्त्यै

     क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात्॥ ८॥


महादेव देवेश देवादिदेव

     स्मरारे पुरारे यमारे हरेति ।

ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं

     ततो मे दयाशील देव प्रसीद ॥ ९॥


त्वदन्यः शरण्यः प्रपन्नस्य नेति

     प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।

न चेत्ते भवेद्भक्तवात्सल्यहानि-

     स्ततो मे दयालो सदा संनिधेहि ॥ १०॥


अयं दानकालस्त्वहं दानपात्रं

     भवानेव दाता त्वदन्यं न याचे ।

भवद्भक्तिमेव स्थिरां देहि मह्यं

     कृपाशील शम्भो कृतार्थोऽस्मि तस्मात्॥ ११॥


पशुं वेत्सि चेन्मां तमेवाधिरूढः

     कलङ्कीति वा मूर्ध्नि धत्से तमेव ।

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा

     त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२॥


न शक्नोमि कर्तुं परद्रोहलेशं

     कथं प्रीयसे त्वं न जाने गिरीश ।

तथाहि प्रसन्नोऽसि कस्यापि कान्ता-

     सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३॥


स्तुतिं ध्यानमर्चां यथावद्विधातुं

     भजन्नप्यजानन्महेशावलम्बे ।

त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-

     र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४॥


शिरोद्दृष्टिहृद्रोगशूलप्रमेह-

     ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।

त्वमाद्यो भिषग्भेषजं भस्म शम्भो

     त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५॥


दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये

     विष्ण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।

भवान्प्राणिनामन्तरात्मासि शम्भो

     ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६॥


त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र

     क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।

किरीटस्फुरच्चामरच्छत्रमाला-

     कलाचीगजक्षौमभूषाविशेषैः ॥ १७॥


भवान्यै भवायापि मात्रे च पित्रे

     मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।

शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै

     शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८॥


भवद्गौरवं मल्लघुत्वं विदित्वा

     प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।

शिवात्मानुभावस्तुतावक्षमोऽहं

     स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९॥


यदा कर्णरन्ध्रं व्रजेत्कालवाह-

     द्विषत्कण्ठघण्टाघणात्कारनादः ।

वृषाधीशमारुह्य देवौपवाह्यं

     तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २०॥


यदा दारुणाभाषणा भीषणा मे

     भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।

तदा मन्मनस्त्वत्पदाम्भोरुहस्थं

     कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१॥


यदा दुर्निवारव्यथोऽहं शयानो

     लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।

तदा जह्नुकन्याजलालङ्कृतं ते

     जटामण्डलं मन्मनोमन्दिरं स्यात्॥ २२॥


यदा पुत्रमित्रादयो मत्सकाशे

     रुदन्त्यस्य हा कीदृशीयं दशेति ।

तदा देवदेवेश गौरीश शम्भो

     नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३॥


यदा पश्यतां मामसौ वेत्ति नास्मा-

     नयं श्वास एवेति वाचो भवेयुः ।

तदा भूतिभूषं भुजङ्गावनद्धं

     पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४॥


यदा यातनादेहसन्देहवाही

     भवेदात्मदेहे न मोहो महान्मे ।

तदा काशशीतांशुसङ्काशमीश

     स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५॥


यदापारमच्छायमस्थानमद्भि-

     र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।

तदा तं निरुन्धन्कृतान्तस्य मार्गं

     महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६॥


यदा रौरवादि स्मरन्नेव भीत्या

     व्रजाम्यत्र मोहं महादेव घोरम् ।

तदा मामहो नाथ कस्तारयिष्य-

     त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७॥


यदा श्वेतपत्रायतालङ्घ्यशक्तेः

     कृतान्ताद्भयं भक्तवात्सल्यभावात् ।

तदा पाहि मां पार्वतीवल्लभान्यं

     न पश्यामि पातारमेतादृशं मे ॥ २८॥


इदानीमिदानीं मृतिर्मे भवित्री-

     त्यहो सन्ततं चिन्तया पीडितोऽस्मि ।

कथं नाम मा भून्मृतौ भीतिरेषा

     नमस्ते गतीनां गते नीलकण्ठ ॥ २९॥


अमर्यादमेवाहमाबालवृद्धं

     हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।

मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-

     द्भवानीपते निर्भयोऽहं भवानि ॥ ३०॥


जराजन्मगर्भाधिवासादिदुःखा-

     न्यसह्यानि जह्यां जगन्नाथ देव ।

भवन्तं विना मे गतिर्नैव शम्भो

     दयालो न जागर्ति किं वा दया ते ॥ ३१॥


शिवायेति शब्दो नमःपूर्व एष

     स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।

महेशान मा गान्मनस्तो वचस्तः

     सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२॥


त्वमप्यम्ब मां पश्य शीतांशुमौलि-

     प्रिये भेषजं त्वं भवव्याधिशान्तौ ।

बहुक्लेशभाजं पदाम्भोजपोते

     भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३॥


अनुद्यल्ललाटाक्षिवह्निप्ररोहै-

     रवामस्फुरच्चारुवामोरुशोभैः ।

अनङ्गभ्रमद्भोगिभूषाविशेषै-

     रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४॥


अकण्ठेकलङ्कादनङ्गेभुजङ्गा-

     दपाणौकपालादफालेनलाक्षात् ।

अमौळौशशाङ्कादवामेकलत्रा-

     दहं देवमन्यं न मन्ये न मन्ये ॥ ३५॥


महादेव शम्भो गिरीश त्रिशूलिम्-

     स्त्वदीयं समस्तं विभातीति यस्मात् ।

शिवादन्यथा दैवतं नाभिजाने

     शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६॥


यतोऽजायतेदं प्रपञ्चं विचित्रं

     स्थितिं याति यस्मिन्यदेकान्तमन्ते ।

स कर्मादिहीनः स्वयञ्ज्योतिरात्मा

     शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७॥


किरीटे निशेशो ललाटे हुताशो

     भुजे भोगिराजो गले कालिमा च ।

तनौ कामिनी यस्य तत्तुल्यदेवं

     न जाने न जाने न जाने न जाने ॥ ३८॥


अनेन स्तवेनादरादम्बिकेशं

     परां भक्तिमासाद्य यं ये नमन्ति ।

मृतौ निर्भयास्ते जनास्तं भजन्ते

     हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९॥


भुजङ्गप्रियाकल्प शम्भो मयैवं

     भुजङ्गप्रयातेन वृत्तेन कॢप्तम् ।

नरः स्तोत्रमेतत्पठित्वोरुभक्त्या

     सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छङ्करभगवत्पाद कृतौ

शिवभुजङ्गं सम्पूर्णम् ॥

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️


10...🌷🍀🌷☘️सर्वनाग  प्रार्थना 🍀🌷🍀🌷☘️


ॐ सर्पेभ्यो नमः

सर्वे नागा: प्रीयन्तां मे ये केचित् पृथ्वीतले।

ये च हेलिमरीचिस्था ये न्तरे दिवि संस्थिता:।।


ये नदीषु महानागा ये सरस्वतिगामिन:।

ये च वापीतडागेषु तेषु सर्वेषु वै नम:।।’


अर्थात् – संपूर्ण आकाश, पृथ्वी, स्वर्ग, सरोवर-तालाबों, नल-कूप, सूर्य किरणें आदि जहां-जहां भी नाग देवता विराजमान है। वे सभी हमारे दुखों को दूर करके हमें सुख-शांतिपूर्वक जीवन दें। उन सभी को हमारी ओर से बारंबार प्रणाम  है.

Comments